सोमवार, २५ नोव्हेंबर, २०१३

कविता(मदीया मातृभूमिः)



 मदीया मातृभूमिः
µ   (पञ्चचामरछन्दसि विरचितेयं कविता)
अगण्यगानगुञ्जिता सुरम्यस्वानसंस्कृता
हिमाद्रिहासलाशितातिसुन्दरी वसुन्धरा ।
जलप्रवाहक्षालिता गुहानिकुञ्जमञ्जुषा
ममेयमाश्रयीकरातिसुन्दरी वसुन्धरा ।।१।।

कलाकलापकल्पिता विकारवर्गवर्जिता
प्रभाकरप्रभासिता हिमाद्रिहासहर्षिता ।
प्रसूनरङ्गरञ्जिता पवित्रपांशुपूजिता
मनोविनोदमर्पय प्रकाण्डस्और्यसञ्चिका ।।२।।

स्वतन्त्रमन्त्रमार्जिता नदीनिनादनादिता
स्वमातृमेदिनीयमेव पूज्यते सदा सता ।
धृतोन्नताद्रिकूटिका हिमालयप्रमापिता
सदा दिदृक्ष्यतां जनैः शनैर्विकाशकर्षिता ।।३।।

प्रदेशवर्गभाजिता भवाब्धिसाररत्नसूः
जयन्ति यत्र सैनिका रिपूनियं हि वीरसूः ।
वहन्ति दुग्धसिञ्चिता नदीगणा हिमालयात्
मदीयस्वच्छसंस्कृतिः सदैव यां शुचीं क्रियात् ।।४।।

कवित्वतत्त्वसंहतिः सुस्वच्छनिर्मला मतिः
प्रफुल्लतां हि यान्ति ते सदैव भास्वरः शशी ।
नवीनज्ञानवर्तिका मयूरनादनर्तिता
सदैव मे मतेर्गती रतिश्च यत्र कर्षिता ।।५।।
- लेखकः ......चिरञ्जीवी खतिवडा
महेश संस्कृत गुरूकुलम्
देवघाटधाम तनहूँ


बुधवार, ११ सप्टेंबर, २०१३

केही गुरूकुलका चल दृश्यहरू


नाटके दर्शकैर्नायकः सेव्यते । गजलम्



नाटके दर्शकैर्नायकः सेव्यते ।
निर्धनैर्याचकैर्दायकः सेव्यते ।।

जानते ये स्वयं गीतमर्म क्वचित् ।
गीतसम्मोहितैर्गायकः सेव्यते ।।

शक्तिमन्तः कलौ भक्तिमन्तः स्वतः ।
दुर्बलैर्मानवैर्जायकः सेव्यते ।।

वञ्चकाः संपदामार्जने तत्पराः ।
लुण्ठकैर्वित्तसंचायकः सेव्यते ।।

यादृशी भावना तादृशी संहतिः ।
पायकैः किं सुरापायकः सेव्यते ।।

मार्गिते किं न विद्यार्थिभिः प्राप्यते ।
शिक्षकैश्चानुसन्धायकः सेव्यते ।।


-चिरञ्जीवी खतिवडा

मंगळवार, २७ ऑगस्ट, २०१३

संस्कृतगीतम्





गीतिकाव्यम्


-भुजङ्गप्रयातच्छन्दः
MAHESH SANSKRIT GURUKUL



सदा सत्क्रिया सेवनीया समस्तैः ।
सकाव्या कथा लेखनीया समस्तैः ।।१।।

विचारं नभश्चुम्बि कुर्युः स्वकीयम् ।
सुवाणीसुधा भोजनीया समस्तैः ।।२।।

हि कार्यं क्रियासुर्न कार्या फलाशा ।
स्वकीया मतिर्मन्थनीया समस्तैः ।।३।।

विनाश्यं जगत्सारभारं किमस्ति ?
तदा मूर्खता रोधनीया समस्तैः ।।४।।

छलं युद्धखेला वरीवृत्यतेऽत्र ।
सुभद्रा कला दर्शनीया समस्तैः ।।५।।

वृथातङ्कपङ्कं कलङ्कं न वै स्यात् ।
व्यथा वेदना ताडनीया समस्तैः ।।६।।

चिरञ्जीविनीं भावय स्वस्य कीर्तिम् ।
सुकीर्तिप्रभा माननीया समस्तैः ।।७।।



मितिः २०६६।१०।०८

रविवार, ११ ऑगस्ट, २०१३

कुत्र कदा च का भीषणा ?


कुत्र का भीषणा ? विचार्यताम् .....

वृष्टिकाले कुहूयामिनी भीषणा ।
शब्दसंयुक्तसौदामिनी भीषणा ।।

का कदा भीषणा का कदा भीषणा ।
पूरुषाणां सदा भामिनी भीषणा ।।

प्रेमबन्धस्तु बध्नाति वै मानवम् ।
स्यात् कदाचित् स्वयं कामिनी भीषणा ।।

तण्डुलव्यञ्जनादीनि किं कुर्वते ।
यद्विहीना गृहस्वामिनी भीषणा ।।

पौरकन्या बहिः स्फुर्तियुक्ता क्वचित् ।
शिल्पकार्येषु सा ग्रामिणी भीषणा ।