सोमवार, २५ नोव्हेंबर, २०१३

कविता(मदीया मातृभूमिः)



 मदीया मातृभूमिः
µ   (पञ्चचामरछन्दसि विरचितेयं कविता)
अगण्यगानगुञ्जिता सुरम्यस्वानसंस्कृता
हिमाद्रिहासलाशितातिसुन्दरी वसुन्धरा ।
जलप्रवाहक्षालिता गुहानिकुञ्जमञ्जुषा
ममेयमाश्रयीकरातिसुन्दरी वसुन्धरा ।।१।।

कलाकलापकल्पिता विकारवर्गवर्जिता
प्रभाकरप्रभासिता हिमाद्रिहासहर्षिता ।
प्रसूनरङ्गरञ्जिता पवित्रपांशुपूजिता
मनोविनोदमर्पय प्रकाण्डस्और्यसञ्चिका ।।२।।

स्वतन्त्रमन्त्रमार्जिता नदीनिनादनादिता
स्वमातृमेदिनीयमेव पूज्यते सदा सता ।
धृतोन्नताद्रिकूटिका हिमालयप्रमापिता
सदा दिदृक्ष्यतां जनैः शनैर्विकाशकर्षिता ।।३।।

प्रदेशवर्गभाजिता भवाब्धिसाररत्नसूः
जयन्ति यत्र सैनिका रिपूनियं हि वीरसूः ।
वहन्ति दुग्धसिञ्चिता नदीगणा हिमालयात्
मदीयस्वच्छसंस्कृतिः सदैव यां शुचीं क्रियात् ।।४।।

कवित्वतत्त्वसंहतिः सुस्वच्छनिर्मला मतिः
प्रफुल्लतां हि यान्ति ते सदैव भास्वरः शशी ।
नवीनज्ञानवर्तिका मयूरनादनर्तिता
सदैव मे मतेर्गती रतिश्च यत्र कर्षिता ।।५।।
- लेखकः ......चिरञ्जीवी खतिवडा
महेश संस्कृत गुरूकुलम्
देवघाटधाम तनहूँ